सभाभ्यः सभापतिभ्यश्च

सभाभ्यः सभापतिभ्यश्च

Authors

  • Ghanshyamsingh N. Gadhvi

Abstract

अद्य आयोजितायामस्यां सभायां में विषय 'संस्कृतपुराण' इति ।
'पुराणम्' भारतस्य सर्वोच्च इतिहासः विद्यते । पुराणेभ्य एव भारतीयजीवनस्य आदर्शः भारतस्य सभ्यता, बारतीय. संस्कृतिः एवञ्च भारतस्य विद्यावैभवस्य उत्कृष्टवास्तविकदर्शनं प्राप्तं भवति ।
पुराणेषु भारतस्य आधिभौतिकी, आदिदैविकी हृश्थ आध्यात्मिकी स्थितिनां दर्शनं भवति । पुराणानि न तु केवलं इतिहासः अपि तु तेषु पुराणेषु आधिभौतिकादि त्रिविधा उन्नतिः अपि दर्शिता अस्ति। पुरातनकालात् एव भारतीय संस्कृतिः एवं धर्मविषयकं ज्ञानं यत्र अहंकितमासीत्। तादृशस्य पुराणस्य महत्त्वं आसीत्। एतस्य अपि कारणमासीत् यत् पुराणानि सनातन धर्मस्य कल्याणमार्गरूपकर्मणः, उपासनायाः एवं ज्ञानस्य उत्कृष्टरुपेण उपस्थापनं कुर्वन्ति । पुराणानि वेदानां गम्भीरविषयानां एवं समाधिगम्य विषयानां प्रकटीकरणं विभिन्न भावात्, भाषासौन्दर्यात्, अलङ्कारात्, तथा च गाथा प्रकटनात् कुर्वन्ति. वास्तविक दृष्टया पुराणानि वेदानां व्याख्याग्रन्थाः इत्यपि कथयितुं शक्यते । अतः पुराणानि सर्वथा वेदानुकुलानि एव, नात्र शंकावकाशः।

Downloads

Download data is not yet available.

Additional Files

Published

10-06-2020

How to Cite

Ghanshyamsingh N. Gadhvi. (2020). सभाभ्यः सभापतिभ्यश्च. Vidhyayana - An International Multidisciplinary Peer-Reviewed E-Journal - ISSN 2454-8596, 5(6). Retrieved from http://vidhyayanaejournal.org/journal/article/view/1543
Loading...